श्रीनरसिंहाष्टोत्तरशतनामस्तोत्रम् लेबलों वाले संदेश दिखाए जा रहे हैं. सभी संदेश दिखाएं
श्रीनरसिंहाष्टोत्तरशतनामस्तोत्रम् लेबलों वाले संदेश दिखाए जा रहे हैं. सभी संदेश दिखाएं

गुरुवार, 10 मई 2018

श्रीनरसिंहाष्टोत्तरशतनामस्तोत्रम्

 *॥ नकारादि श्रीनरसिंहाष्टोत्तरशतनामस्तोत्रम् ॥*



श्री हयग्रीवाय नमः ।
हरिः ॐ
नरसिंहो नरो नारस्रष्टा नारायणो नवः ।
नवेतरो नरपतिर्नरात्मा नरचोदनः ॥ १॥
नखभिन्नस्वर्णशय्यो नखदंष्ट्राविभीषणः ।
नारभीतदिशानाशो नन्तव्यो नखरायुधः ॥ २॥
नादनिर्भिन्नपाद्माण्डो नयनाग्निहुतासुरः ।
नटत्केसरसञ्जातवातविक्षिप्तवारिदः ॥ ३॥
नलिनीशसहस्राभो नतब्रह्मादिदेवतः ।
नभोविश्वम्भराभ्यन्तर्व्यापिदुर्वीक्षविग्रहः ॥ ४॥
निश्श्वासवातसंरम्भ घूर्णमानपयोनिधिः ।
निर्दयाङ्घ्रियुगन्यासदलितक्ष्माहिमस्तकः ॥ ५॥
निजसंरम्भसन्त्रस्तब्रह्मरुद्रादिदेवतः ।
निर्दम्भभक्तिमद्रक्षोडिम्भनीतशमोदयः ॥ ६॥
नाकपालादिविनुतो नाकिलोककृतप्रियः ।
नाकिशत्रूदरान्त्रादिमालाभूषितकन्धरः ॥ ७॥
नाकेशासिकृतत्रासदंष्ट्राभाधूततामसः ।
नाकमर्त्यातलापूर्णनादनिश्शेषितद्विपः ॥ ८॥
नामविद्राविताशेषभूतरक्षःपिशाचकः ।
नामनिश्श्रेणिकारूढनिजलोकनिजव्रजः ॥ ९॥
नालीकनाभो नागारिवन्द्यो नागाधिराड्भुजः ।
नगेन्द्रधीरो नेत्रान्तस्ख्सलदग्निकणच्छटः ॥ १०॥
नारीदुरासदो नानालोकभीकरविग्रहः ।
निस्तारितात्मीयसन्थो निजैकज्ञेयवैभवः ॥ ११॥
निर्व्याजभक्तप्रह्लादपरिपालनतत्परः ।
निर्वाणदायी निर्व्याजभक्त्येकप्राप्यतत्पदः ॥ १२॥
निर्ह्रादमयनिर्घातदलितासुरराड्बलः ।
निजप्रतापमार्ताण्डखद्योतीकृतभास्करः ॥ १३॥
निरीक्षणक्षतज्योतिर्ग्रहतारोडुमण्डलः ।
निष्प्रपञ्चबृहद्भानुज्वालारुणनिरीक्षणः ॥ १४॥
नखाग्रलग्नारिवक्षस्स्रुतरक्तारुणाम्बरः ।
निश्शेषरौद्रनीरन्ध्रो नक्षत्राच्छादितक्षमः ॥ १५॥
निर्णिद्ररक्तोत्पलाक्षो निरमित्रो निराहवः ।
निराकुलीकृतसुरो निर्णिमेयो निरीश्वरः ॥ १६॥
निरुद्धदशदिग्भागो निरस्ताखिलकल्मषः ।
निगमाद्रिगुहामध्यनिर्णिद्राद्भुतकेसरी ॥ १७॥
निजानन्दाब्धिनिर्मग्नो निराकारो निरामयः ।
निरहङ्कारविबुधचित्तकानन गोचरः ॥ १८॥
नित्यो निष्कारणो नेता निरवद्यगुणोदधिः ।
निदानं निस्तमश्शक्तिर्नित्यतृप्तो निराश्रयः ॥ १९॥
निष्प्रपञ्चो निरालोको निखिलप्रीतिभासकः ।
निरूढज्ञानिसचिवो निजावनकृताकृतिः ॥ २०॥
निखिलायुधनिर्भातभुजानीकशताद्भुतः ।
निशितासिज्ज्वलज्जिह्वो निबद्धभृकुटीमुखः ॥ २१॥
नगेन्द्रकन्दरव्यात्तवक्त्रो नम्रेतरश्रुतिः ।
निशाकरकराङ्कूर गौरसारतनूरुहः ॥ २२॥
नाथहीनजनत्राणो नारदादिसमीडितः ।
नारान्तको नारचित्तिर्नाराज्ञेयो नरोत्तमः ॥ २३॥
नरात्मा नरलोकांशो नरनारायणो नभः ।
नतलोकपरित्राणनिष्णातो नयकोविदः ॥ २४॥
निगमागमशाखाग्र प्रवालचरणाम्बुजः ।
नित्यसिद्धो नित्यजयी नित्यपूज्यो निजप्रभः ॥ २५॥
निष्कृष्टवेदतात्पर्यभूमिर्निर्णीततत्त्वकः ।
नित्यानपायिलक्ष्मीको निश्श्रेयसमयाकृतिः ॥ २६॥
निगमश्रीमहामालो निर्दग्धत्रिपुरप्रियः ।
निर्मुक्तशेषाहियशा निर्द्वन्द्वो निष्कलो नरी ॥ २७॥
॥ इति नकारादि श्री नरसिंहाष्टोत्तरशतनामस्तोत्रम् पराभव
श्रावण शुद्धैकादश्याम् रामेण लिखिता श्री हयग्रीवाय समर्पित ॥




ऊॅ हौं जूं सः। ऊॅ भूः भुवः स्वः ऊॅ त्रयम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम्।
उव्र्वारूकमिव बन्धनान्मृत्योर्मुक्षीय मामृतात्  मधुकर / किरण / एवं शिवंशी उर्फ बाटू को रक्षय- रक्षय - पालय-पालय ऊॅ स्वः भुवः भूः ऊॅ। ऊॅ सः जूं हौं।

ह्रीं ह्रीं वं वं ऐं ऐं मृतसंजीवनि विद्ये मृतमुत्थापयोत्थापय क्रीं ह्रीं ह्रीं वं स्वाहा।


Please पोस्ट करें



 



https://gazabpostinhindi.blogspot.in/