संस्कृत / हिंदी / सचित्र हनुमान चालीसा Hanuman Chalisa I GULSHAN KUMAR I HARIHARAN लेबलों वाले संदेश दिखाए जा रहे हैं. सभी संदेश दिखाएं
संस्कृत / हिंदी / सचित्र हनुमान चालीसा Hanuman Chalisa I GULSHAN KUMAR I HARIHARAN लेबलों वाले संदेश दिखाए जा रहे हैं. सभी संदेश दिखाएं

रविवार, 19 मई 2019

संस्कृत / हिंदी / सचित्र हनुमान चालीसा Hanuman Chalisa I GULSHAN KUMAR I HARIHARAN, Shree Hanuman Chalisa

संस्कृत / हिंदी / सचित्र हनुमान चालीसा 

*
श्री गुरु चरण सरोज रज निज मनु मुकुरु सुधारि ।
बरनऊं रघुवर बिमल जसु जो दायकु फल चारि ।।

हृद्दर्पणं नीरजपादयोश्च गुरोः पवित्रं रजसेति कृत्वा ।  
            फलप्रदायी यदयं च सर्वम् रामस्य पूतञ्च यशो वदामि ।।              
*
बुद्धि हीन तनु जानिकै सुमिरौं पवनकुमार ।
बल बुद्धि विद्या देहु मोहि हरहु क्लेश विकार ।।

स्मरामि तुभ्यम् पवनस्य पुत्रम्  बलेन रिक्तो मतिहीनदासः ।
दूरीकरोतु सकलं च दुःखम्  विद्यां बलं बुद्धिमपि प्रयच्छ ।।


   *                      
जय हनुमान ज्ञान गुण सागर जय कपीस तिहुं लोक उजागर ।

जयतु हनुमद्देवो ज्ञानाब्धिश्च गुणागरः ।
जयतु वानरेशश्च त्रिषु लोकेषु कीर्तिमान् ।।( 1)

*
रामदूत अतुलित बलधामा  अंजनि पुत्र पवनसुत नामा ।

दूतः कोशलराजस्य शक्तिमांश्च न तत्समः ।
अञ्जना जननी यस्य देवो वायुः पिता स्वयम्।।(2)
*

महावीर विक्रम बजरंगी कुमति निवार सुमति के संगी।

हे वज्रांग महावीर त्वमेव च सुविक्रमः।
कुत्सितबुद्धिशत्रुस्त्वम् सुबुद्धेः प्रतिपालकः।।(3)


*

कंचन बरन बिराज सुबेसा कानन कुण्डल कुंचित केसा ।

                    काञ्चनवर्णसंयुक्तः वासांसि शोभनानि च ।                       
कर्णयोः कुण्डले शुभ्रे कुञ्चितानि कचानि च ।।(4)

*

हाथ बज्र औ ध्वजा बिराजै कांधे मूंज जनेऊ साजे ।

वज्रहस्ती महावीरः ध्वजायुक्तस्तथैव च।
स्कन्धे च शोभते यस्य मुञ्जोपवीतशोभनम्।।(5)


*

संकर सुवन केसरी नन्दन  तेज प्रताप महाजगबन्दन ।

नेत्रत्रयस्य पुत्रस्त्वं केशरीनन्दनः खलु ।
तेजस्वी त्वं यशस्ते च वन्द्यते पृथिवीतले।।(6)


*

विद्यावान गुनी अति चातुर राम काज करिबै को आतुर ।

विद्यावांश्च गुणागारः कुशलोऽपि कपीश्वरः।
रामस्य कार्यसिद्ध्यर्थम् उत्सुको सर्वदैव च ।।(7)


*

प्रभु चरित्र सुनिबे को रसिया राम लखन सीता मन बसिया ।

राघवेन्द्रचरित्रस्य रसज्ञः सः प्रतापवान् ।
वसन्ति हृदये तस्य सीता रामश्च लक्ष्मणः।।(8)


*

सूक्ष्म रूप धरि सियहिं दिखावा विकट रूप धरि लंक जरावा ।

वैदेही सम्मुखे तेन प्रदर्शितस्तनुः लघुः।
लंका दग्धा कपीशेन विकटरूपधारिणा । (9)


*

भीम रूप धरि असुर संहारे रामचन्द्र के काज संवारे ।

हताः रूपेण भीमेन सकलाः रजनीचराः।
कार्याणि कोशलेन्द्रस्य सफलीकृतवान् कपिः।।(10)


*

लाय सजीवन लखन जिवाए श्री रघुवीर हरषि उर लाए ।

जीवितो लक्ष्मणस्तेन खल्वानीयौषधम् तथा
रामेण हर्षितो भूत्वा वेष्टितो हृदयेन सः।।(11)


*

रघुपति कीन्ही बहुत बडाई तुम मम प्रिय भरत सम भाई ।

प्राशंसत् मनसा रामः कपीशं बलपुंगवम्।
प्रियं समं मदर्थं त्वम् कैकेयीनन्दनेन च।।(12)


*

सहस बदन तुम्हरो जस गावैं अस कहि श्रीपति कण्ठ लगावैं ।

यशो मुखैः सहस्रैश्च गीयते तव वानर ।
हनुमन्तं परिष्वज्य प्रोक्तवान् रघुनन्दनः।।(13)


*

सनकादिक ब्रह्मादि मुनीसा नारद सारद सहित अहीसा।

सनकादिसमाः सर्वे देवाः ब्रह्मादयोऽपि च ।
भारतीसहितः शेषो देवर्षिः नारदः खलु।।(14)


*

जम कुबेर दिगपाल जहां ते कबि कोबिद कहि सकहि कहां ते।

कुबेरो यमराजश्च दिक्पालाः सकलाः स्वयम् ।
पण्डिताः कवयः सर्वे शक्ताः न कीर्तिमण्डने।।(15)


*

तुम उपकार सुग्रीवहिं कीन्हा राम मिलाय राज पद दीन्हा।

उपकृतश्च सुग्रीवो वायुपुत्रेण धीमता।
वानराणामधीपोऽभूद् रामस्य कृपया हि सः।।(16)


*

तुम्हरो मन्त्र विभीषण माना लंकेश्वर भए सब जग जाना ।

तवैव चोपदेशेन दशवक्त्रसहोदरः ।
प्राप्नोति नृपत्वं सः जानाति सकलं जगत्।।(17)


*

जुग सहस्र जोजन पर भानू लील्यो ताहि मधुर फल जानू।

योजनानां सहस्राणि दूरे भुवः स्थितो रविः ।
सुमधुरं फलं मत्वा निगीर्णः भवता पुनः।।18)


*

प्रभु मुद्रिका मेलि मुख माहीं जलधि लांघि गए अचरज नाहिं।

मुद्रिकां कोशलेन्द्रस्य मुखे जग्राह वानरः ।
गतवानब्धिपारं सः नैतद् विस्मयकारकम् ।।(19)


*

दुर्गम काज जगत के जेते सुगम अनुग्रह तुम्हरे तेते।

यानि कानि च विश्वस्य कार्याणि दुष्कराणि हि ।
भवद्कृपाप्रसादेन सुकराणि पुनः खलु ।।20)


*

राम दुआरे तुम रखवारे होत न आज्ञा बिनु पैसारे।

द्वारे च कोशलेशस्य रक्षको वायुनन्दनः।
तवानुज्ञां विना कोऽपि न प्रवेशितुमर्हति।।(21)


*

सब सुख लहै तुम्हारी सरना तुम रक्षक काहु को डरना ।

लभन्ते शरणं प्राप्ताः सर्वाण्येव सुखानि च।
भवति रक्षके लोके भयं मनाग् न जायते।।(22)


*

आपन तेज सम्हारो आपे तीनो लोक हांक ते कांपै ।

समर्थो न च संसारे वेगं रोद्धुं बली खलु ।
कम्पन्ते च त्रयो लोकाः गर्जनेन तव प्रभो ।।(23)


*

भूत पिसाच निकट नहिं आवै महाबीर जब नाम सुनावै।

श्रुत्वा नाम महावीरं वायुपुत्रस्य धीमतः।
भूतादयः पिशाचाश्च पलायन्ते हि दूरतः।।(24)


*

नासै रोग हरै सब पीरा जो समिरै हनुमत बलबीरा।

हनुमन्तं कपीशं च ध्यायन्ति सततं हि ये।
नश्यन्ति व्याधयः तेषां पीडाः दूरीभवन्ति च।।(25)


*
संकट ते  हनुमान छुडावै मन क्रम बचन ध्यान जो लावै।

मनसा कर्मणा वाचा ध्यायन्ति हि ये जनाः।
दुःखानि च प्रणश्यन्ति हनुमन्तम् पुनः पुनः।।26)


*

सब पर राम तपस्वी राजा तिनके काज सकल तुम साजा ।

नृपाणाञ्च नृपो रामः तपस्वी रघुनन्दनः ।
तेषामपि च कार्याणि सिद्धानि भवता खलु।।(27)


*

और मनोरथ जो कोई लावै सोई अमित जीवन फल पावै।

     कामान्यन्यानि च सर्वाणि कश्चिदपि करोति यः।   
  प्राप्नोति फलमिष्टं सः जीवने नात्र संशयः।।(28)


*

चारो जुग परताप तुम्हारा है प्रसिद्ध जगत उजियारा ।

कृतादिषु च सर्वेषु युगेषु सः प्रतापवान् ।
यशः कीर्तिश्च सर्वत्र दोदीप्यते महीतले ।।(29)


*

साधु सन्त के तुम रखवारे असुर निकन्दन राम दुलारे।

साधूनां खलु सन्तानां रक्षयिता कपीश्वरः।
असुराणाञ्च संहर्ता रामस्य प्रियवानर ।।(30)


*

अष्ट सिद्धि नौ निधि के दाता अस वर दीन जानकी माता ।

सिद्धिदो निधिदः त्वञ्च जनकनन्दिनी स्वयम् ।
दत्तवती वरं तुभ्यं जननी विश्वरूपिणी ।।(31)


*

राम रसायन तुम्हरे पासा सदा रहो रघुपति के दासा ।

कराग्रे वायुपुत्रस्य चौषधिः रामरूपिणी ।
रामस्य कोशलेशस्य पादारविन्दवन्दनात् ।।(32)


*

तुम्हरे भजन राम को पावै जन्म जन्म के दुख बिसरावै ।

पूजया मारुतपुत्रस्य नरः प्राप्नोति राघवम् ।
जन्मनां कोटिसंख्यानां दूरीभवन्ति पातकाः।।(33)



*
अन्त काल रघुवर पुर जाई जहां जन्म हरिभक्त कहाई ।

देहान्ते च पुरं रामं भक्ताः हनुमतः सदा।
प्राप्य जन्मनि सर्वे हरिभक्ताः पुनः पुनः ।।(34)


*

और देवता चित्त न धरई हनुमत सेइ सर्व सुख करई ।

देवानामपि सर्वेषां संस्मरणं वृथा खलु।
कपिश्रेष्ठस्य सेवा हि प्रददाति सुखं परम् ।।(35)



संकट कटै मिटै सब पीरा जो सुमिरै हनुमत बलबीरा।

करोति संकटं दूरं संकटमोचनः कपिः।
नाशयति च दुःखानि केवलं स्मरणं कपेः।।(36)


*

जय जय हनुमान गोसाईं कृपा करहु गुरुदेव की नाईं ।

जयतु वानरेशश्च जयतु हनुमद् प्रभुः।
गुरुदेवकृपातुल्यम् करोतु मम मंगलम् ।।(37)


*

जो सत बार पाठ कर कोई छूटहि बन्दि महासुख होई।

श्रद्धया येन केनापि शतवारं च पठ्यते।
मुच्यते बन्धनाच्छीघ्रम् प्राप्नोति परमं सुखम्।।(38)


*

जो यह पढै हनुमान चालीसा होय सिद्धि साखी गौरीसा।

स्तोत्रं तु रामदूतस्य चत्वारिंशच्च संख्यकम्।
पठित्वा सिद्धिमाप्नोति साक्षी कामरिपुः स्वयम् ।।39)


*

तुलसीदास सदा हरि चेरा  कीजै नाथ हृदय मँह डेरा।

सर्वदा रघुनाथस्य तुलसी सेवकः परम्।
(सर्वदा रघुनाथस्य रवीन्द्रः सेवकः परम्)
विज्ञायेति कपिश्रेष्ठ वासं मे हृदये कुरु ।।(40)


*

पवनतनय संकट हरन मंगल मूरति रूप ।
राम लखन सीता सहित हृदय बसहु सुर भूप ।।

विघ्नोपनाशी पवनस्य पुत्रः
  कल्याणकारी हृदये कपीश ।
सौमित्रिणा राघवसीतया च
  सार्धं निवासं कुरु रामदूत ।।


*

देवदत्तो गुरुर्यस्य मार्कण्डेयश्च गोत्रकम्।
अनुवादः कृतस्तेन कृपया पितृपादयोः।।

*श्री हनुमानजी सदैव आपका कल्याण करें


संस्कृत / हिंदी / सचित्र हनुमान चालीसा Hanuman Chalisa I GULSHAN KUMAR I HARIHARAN,  Shree Hanuman Chalisa